लोकोत्तरं चरितमर्पयति प्रतिष्ठा...

विकिसूक्तिः तः

सुभाषितम्

लोकोत्तरं चरितमर्पयति प्रतिष्ठा
पुंसां कुलं न हि निमित्तमुदारतायाः।
वातापितापनमुनेः कलशात्प्रसूतिः
लीलायितं पुनरगाधसमुद्रपानम् ॥

lokottaraṃ caritamarpayati pratiṣṭhā
puṃsāṃ kulaṃ na hi nimittamudāratāyāḥ ।
vātāpitāpanamuneḥ kalaśātprasūtiḥ
līlāyitaṃ punaragādhasamudrapānam ॥

पदच्छेदः

लोकोत्तरं, चरितम्, अर्पयति, प्रतिष्ठा, पुंसां, कुलं, न, निमित्तम्, उदारतायाः, वातापितापनमुनेः, कलशात्, प्रसूतिः, लीलायितं, पुनः, अगाधसमुद्रपानम् ।


तात्पर्यम्

पुंसां लोकप्रसिद्धौ तेषां कुलं कारणं न भवति । तेषां कार्यमेव लोकोत्तरप्रसिद्धाये कारणं भवति । वातापितापनमुनिः कलशात् जन्म प्राप्तवान् । अथापि तस्य समुद्रजलपानमेव तस्य प्रसिद्धये कारणम् अभवत् । वीराणां कार्यमेव तेभ्यः कीर्तिं प्रापयति ।