मदसिक्तमुखैर्मृगाधिपः...

विकिसूक्तिः तः

सुभाषितम्

मदसिक्तमुखैर्मृगाधिपः करिभिर्वर्तयते स्वयं हतैः ।
लघयन्खलु तेजसा जगन्न महानिच्छति भूतिमन्यतः ॥

madasiktamukhairmṛgādhipaḥ karibhirvartayate svayaṃhataiḥ ।
laghayankhalu tejasā jaganna mahānicchati bhūtimanyataḥ ॥

पदच्छेदः

मदसिक्तमुखैः, मृगाधिपः, करिभिः, वर्तयते, स्वयं, हतैः, लघयन्, खलु, तेजसा, जगत्, न, महान्, इच्छति, भूतिम्, अन्यतः ।


तात्पर्यम्

सिंहः स्वशक्त्या हतानां गजानां मृतदेहानां मध्ये गौरवं प्रदर्शयितुम् इच्छति । तथैव वीरः अपि स्वतेजसा समग्रं विश्वं जेतुम् इच्छति । तदेव महत् सम्पत् इति प्रतिजानाति वीरः ।