तेजस्विनि क्षमोपेते...

विकिसूक्तिः तः

सुभाषितम्

तेजस्विनि क्षमोपेते नातिकार्कश्यमाचरेत् ।
अतिनिर्मन्थनादग्निश्चन्दनादपि जायते ॥

tejasvini kṣamopete nātikārkaśyamācaret ।
atinirmanthanādagniścandanādapi jāyate ॥

पदच्छेदः

तेजस्विनि, क्षम, उपेते, न, अतिकार्कश्यम्, आचरेत्, अतिनिर्मन्थनात्, अग्निः, चन्दनात्, अपि, जायते ।


तात्पर्यम्

क्षमागुणयुक्तं तेजस्विनं न कदापि रोषणीयम् । चन्दस्य अतीवमन्थनाद् अपि अग्निः उद्भूयते ।

"https://sa.wikiquote.org/w/index.php?title=तेजस्विनि_क्षमोपेते...&oldid=16780" इत्यस्माद् प्रतिप्राप्तम्