ग्रसमानमिवौजांसि...

विकिसूक्तिः तः

सुभाषितम्

ग्रसमानमिवौजांसि सहसा गौरवेरितम् ।
नाम यस्याभिनन्दन्ति द्विषोऽपि स मतः पुमान् ॥

grasamānamivaujāsi sahasā gauravēritam ।
nāma yasyābhinandanti dviṣō:'pi sa mataḥ pumān

पदच्छेदः

ग्रसमानम्, इव, ओजांसि, सहसा, गौरवेरितम्, नाम, यस्य, अभिनन्दनति, द्विषः, अपि, सः, मतः, पुमान् ।


तात्पर्यम्

यस्य नाम गौरवेण स्वीक्रियते, यस्य नाम स्वीकारेण पराक्रमस्य तेजः प्रसरति, यस्य नाम शत्रवः अपि अभिनन्दन्ति स एव पुरुषः सम्मानयोग्यः अस्ति ।

"https://sa.wikiquote.org/w/index.php?title=ग्रसमानमिवौजांसि...&oldid=16791" इत्यस्माद् प्रतिप्राप्तम्