स्पृहयति भुजयोः...

विकिसूक्तिः तः

सुभाषितम्

स्पृहयति भुजयोरन्तरमायतकरवालकररुहविदीर्णम् ।
विजयश्रीर्वीराणां व्युत्पन्नप्रौढवनितेव ॥

spṛhayati bhujayorantaramāyatakaravālakararuhavidīrṇam ।
vijayaśrīrvīrāṇāṃ vyutpannaprauḍhavaniteva ।।

पदच्छेदः

स्पृहयति, भुजयोः, अन्तरम्, आयतकरवालकररुहविदीर्णम्, विजयश्रीः, वीराणां, व्युत्पन्नप्रौढवनिता, इव ।


तात्पर्यम्

चतुरा प्रौढा च स्त्री बलवान् पुरुषस्य बाह्वोः मध्ये लसितुम् इच्छति । तथैव विजयलक्ष्मीः अपि वीराणां बाह्वोः मध्ये विलसितुम् इच्छति ।

"https://sa.wikiquote.org/w/index.php?title=स्पृहयति_भुजयोः...&oldid=16796" इत्यस्माद् प्रतिप्राप्तम्