एकः स एव तेजस्वी...

विकिसूक्तिः तः

सुभाषितम्

एकः स एव तेजस्वी सैंहिकेयः सुरद्विषाम् ।
शिरोमात्रावशेषेण जीयन्ते येन शत्रवः ॥

ekaḥ sa eva tejasvī saiṃhikeyaḥ suradviṣām ।
śiromātrāvaśeṣeṇa jīyante yena śatravaḥ ।।

पदच्छेदः

एकः, सः, एव, तेजस्वी, सैंहिकेयः, सुरद्विषाम्, शिरोमात्र, अवशेषेण, जीयन्ते, येन, शत्रवः ।


तात्पर्यम्

राक्षसाणां मध्ये सिंहिकायाः पुत्रः राहुः एव तेजस्वी अस्ति । तस्य शिरः मात्रम् अवशिष्टम् । अथापि सः शिरो मात्रेण शतॄन् जयति ।

"https://sa.wikiquote.org/w/index.php?title=एकः_स_एव_तेजस्वी...&oldid=16797" इत्यस्माद् प्रतिप्राप्तम्