दीप्यन्तां ये दीप्त्यैः...

विकिसूक्तिः तः

सुभाषितम्

दीप्यन्तां ये दीप्त्यैर्घटिता मणयश्च वीरपुरुषाश्च ।
तेजः स्वविनाशाय तु भवति तृणानामिव लघूनाम् ॥

dīpyantāṃ ye dīptyairghaṭitā maṇayaśca vīrapuruṣāśca ।
tejaḥ svavināśāya tu bhavati tṛṇānāmiva laghūnām ।।

पदच्छेदः

दीप्यन्तां, ये, दीप्त्यैः, घटिता, मणयः, च, वीरपुरुषाः, च, तेजः, स्वविनाशाय, तु, भवति, तृणानाम्, इव, लघूनाम् ।


तात्पर्यम्

तृणसदृशानां लघूनां तेजः तेषां स्वविनाशाय एव भवति । मणिवत् विद्यमानाः वीरपुरुषाः स्वतेजसा एव प्रकाश्यन्ते ।