राघवस्य शरैर्घोरैः...

विकिसूक्तिः तः

प्रहेलिका

राघवस्य शरैर्घोरैः घोररावणमाहवे। अत्रक्रियापदं गुप्तं मर्यादा दशवार्षिकी॥



अर्थः

"राघवस्य घोरैः शरैः घोररावणम् आहवे" इति वाक्ये क्रियापदं गुप्तम्। यदि उत्तरं वदति तस्य दशवर्षपर्यन्तं मर्यादा कल्प्यते।

उत्तरम्

हे राघव! घोरैः शरैः रावणं आहवे स्य इति पदच्छेदः करणीयः। स्य इति षो अन्तकर्मणि इति धातोः लोट् लकारे मध्यमपुरुषैकवचनम्। स्य इत्यस्य क्षयं कुरु(नाशय) इत्यर्थः।


उत्तरम्

{{{उत्तरम्}}}


"https://sa.wikiquote.org/w/index.php?title=राघवस्य_शरैर्घोरैः...&oldid=16847" इत्यस्माद् प्रतिप्राप्तम्