सद्भिरेव सहासीत...

विकिसूक्तिः तः

सुभाषितम्

सद्भिरेव सहासीत सद्भिः कुर्वीत सङ्गतिम् ।
सद्भिर्विवादं मैत्रीं च नासद्भिः किञ्चिदाचरेत्॥

सुभाषितरत्नभाण्डागारम् १५३/३

sadbhireva sahāsīta sadbhiḥ kurvīta saṅgatim ।
sadbhirvivādaṃ maitrīṃ ca nāsadbhiḥ kiñcidācaret॥

पदच्छेदः

सद्भिः, एव, सह, आसीत, सद्भिः, कुर्वीत, सङ्गतिम्, सद्भिः, विवादं, मैत्रीं, च, न, असद्भिः, किञ्चित्, आचरेत्॥


तात्पर्यम्

मनुष्यः सज्जनैः सह एव निवासं कुर्यात् । सज्जनैः सह एव सङ्गतिं कुर्यात् । सज्जनैः सह एव मित्रतां च कुर्यात् । दुर्जनैः सह किमपि न व्यवहरेत् ।


आङ्ग्लार्थः

Be with good people, associate with good people, have even an argument or friendship with good people, Do not have anything to do with the wicked people.

"https://sa.wikiquote.org/w/index.php?title=सद्भिरेव_सहासीत...&oldid=16992" इत्यस्माद् प्रतिप्राप्तम्