ऋणशेषश्चाग्निशेषः...

विकिसूक्तिः तः

सुभाषितम्

ऋणशेषश्चाग्निशेषः शत्रुशेषस्तथैव च ।
पुनः पुनः प्रवर्तन्ते तस्माच्छेषं न रक्षयेत्‌ ॥

सुभाषितरत्नभाण्डागारम् १५४/५७

ṛṇaśeṣaścāgniśeṣaḥ śatruśeṣastathaiva ca।
punaḥ punaḥ pravartante tasmāccheṣaṃ na rakṣayet‌ ॥

पदच्छेदः

ऋणशेषः, च, अग्निशेषः, शत्रुशेषः, तथा, एव, च, पुनः, पुनः, प्रवर्तन्ते, तस्मात्, शेषं, न, रक्षयेत्‌ ॥


तात्पर्यम्

मनुष्येण दातव्यं यत् ऋणम् अस्ति तत् किञ्चिदपि न अवशेषयेत्, अर्थात् सम्पूर्णम् ऋणं प्रत्यर्पयेत् । अग्नेः किञ्चिदपि शेषं न अवशेषयेत् । तथा च युद्धक्षेत्रे एकम् अपि शत्रुं न अवशेषयेत् । यतः अवशिष्टाः एते त्रयः पुनः पुनः वर्धमानाः भवन्ति ।


आङ्ग्लार्थः

Any remainder of debt, fire and enemy grow rapidly again and again, hence no remainder should be maintained.. (debts should be completely paid of. and fire or enemies should be completely destroyed )

"https://sa.wikiquote.org/w/index.php?title=ऋणशेषश्चाग्निशेषः...&oldid=17225" इत्यस्माद् प्रतिप्राप्तम्