अन्तर्यामी मम भगवान्...

विकिसूक्तिः तः

अन्तर्यामी मम भगवान्...


तुङ्गहिमाचलकिरीटशाली । गङ्गायमुनारेवामाली ।
रविशशिमण्डलदिव्यकुण्डली । अगणितऋषिमुनिविभूतिमान् ॥
भारतदेशो जयतु महान् । अन्तर्यामी मम भगवान् ॥ १॥

शान्तो दान्तो नित्यसंयमी । यागी योगी द्दढयमनियमी ।
महामनस्वी स्वात्मविक्रमी । जगद्गुरुर्यो विद्यावान् ॥
भारतदेशो जयतु महान् । अन्तर्यामी मम भगवान् ॥ २॥

स्वसिति सनातनवैदिकमन्त्रम् । गायति रामायणं पवित्रम् ।
भागवतं भारतं विचित्रम् । महामनीषी प्रतिभावान् ॥
भारतदेशो जयतु महान् । अन्तर्यामी मम भगवान् ॥ ३॥

देशे देशे निपीडितानाम् । विवासितानां विपट्गतानाम् ।
असहायानां दीनजनानाम् । आश्रयदाता करुणावान् ॥
भारतदेशो जयतु महान् । अन्तर्यामी मम भगवान् ॥ ४॥

भवतु शरीरं चित्तं वित्तम् । सदैव भारतसेवायत्तम् ।
सर्वस्वं भारताय दत्तम् । स एव परमेश्वरो महान् ॥
भारतदेशो जयतु महान् । अन्तर्यामी मम भगवान् ॥ ५॥


- डा श्रीधर भास्कर वर्णेकर

स्रोतः- Sanskritdocuments


"https://sa.wikiquote.org/w/index.php?title=अन्तर्यामी_मम_भगवान्...&oldid=17356" इत्यस्माद् प्रतिप्राप्तम्