चक्षुःपूतं न्यसेत्पादं...

विकिसूक्तिः तः

सुभाषितम्

चक्षुःपूतं न्यसेत्पादं वस्त्रपूतं जलं पिबेत्‌ ।
सत्यपूतां वदेद्वाणीं मनःपूतं समाचरेत्‌ ॥

cakṣuḥpūtaṃ nyasetpādaṃ vastrapūtaṃ jalaṃ pibet‌ ।
satyapūtāṃ vadedvāṇīṃ manaḥpūtaṃ samācaret‌ ॥

पदच्छेदः

चक्षुःपूतम्, न्यसेत्, पादम्, वस्त्रपूतम्, जलम्, पिबेत्‌, सत्यपूताम्, वदेत्, वाणीम्, मनःपूतम्, समाचरेत्‌ ॥


तात्पर्यम्

जनः मार्गं सम्यक् दृष्ट्वा पादं स्थापयेत्, वस्त्रेण जलस्य संशोधनं कृत्वा पिबेत्, सत्ययुक्तां वाणीं वदेत्, तथा मनसा सम्यक् विचार्य व्यवहारं कुर्यात् ।


आङ्ग्लार्थः

Step on a place after seeing that it is clean, drink water after filtering it through a piece of cloth, utter your words purified by truth, do such deeds which, your conscience says, are good.