अद्भिर्गात्राणि शुध्यन्ति...

विकिसूक्तिः तः

सुभाषितम्

अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति ।
विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुध्यति ॥

मनुस्मृतिः – ५/१०९

adbhirgātrāṇi śudhyanti manaḥ satyena śudhyati ।
vidyātapobhyāṃ bhūtātmā buddhirjñānena śudhyati ॥

पदच्छेदः

अद्भिः, गात्राणि, शुध्यन्ति, मनः, सत्येन, शुध्यति, विद्यातपोभ्याम्, भूतात्मा, बुद्धिः, ज्ञानेन, शुध्यति ।


तात्पर्यम्

जलेन शरीरं पवित्रं भवति । सत्यवदनेन मनः पवित्रं भवति । विद्यया तपसा च भूतात्मा पवित्रः भवति । ज्ञानेन बुद्धिः पवित्रा भवति ।


आङ्ग्लार्थः

The body is purified by water, the mind by truth, the soul by knowledge and austerity, the reason by wisdom.