आत्मना विन्दते वीर्यम्...

विकिसूक्तिः तः

आत्मना विन्दते वीर्यम्, विद्यया विन्दते अमृतम् । - केनोपनिषत् २-४

आत्मना वीर्यं विन्दते । आत्मविद्यया अमृतत्वं प्राप्नोति ।

वीरस्य भावो हि वीर्यं नाम । अस्मिन् विशाले जगति नानाविधानि वीर्याणि सन्ति । जपवीर्यम्, मन्त्रवीर्यम्,
औषधवीर्यम्, आरोग्यवीर्यम्, तपोवीर्यम् इत्यादीनि । एतानि वीर्याणि स्वस्वदृष्ट्या अद्भुतान्येव; न हि तावता
सुलभेन एतेषां सम्पादनं भवति । अपि तु आत्मवीर्यस्य पुरतः एतानि सर्वाण्यपि निर्वीर्याण्येव भवन्ति ।
आत्मवीर्यमेकमेव निजं वीर्यम् । आत्मवीर्येणैकेन हि केवलेन मानवः मृत्युं जयति, संसारभयात् मुच्यते, न तु
अपरैः वीर्यान्तरैः ॥

आत्मविद्यया एव अमृतत्वं मोक्षं प्राप्नुयात् मानवः । आत्मविद्याम् एकां विहाय इतरासां सर्वासामपि विद्यानाम्
‘अनात्मविद्या’ इति नामधेयम् । अनात्मविद्यया धनं, कीर्तिः अधिकारः, आरोग्यादीनि लभ्यन्ते; नैव तु मोक्षः
प्राप्यते इत्यर्थः ॥