आत्मनो वा अरे दर्शनेन...

विकिसूक्तिः तः

आत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेन इदं
सर्वं विदितम् । - बृहदारण्यकोपनिषत् २-४-५

अरे मैत्रेयि, आत्मनो दर्शनेन श्रवणेन मननेन तथा विज्ञानेन इदं सर्वं विश्वं विदितं भवति ॥

आत्मा नाम प्रत्यगात्मा । आत्मा नाम अत्र परं ब्रह्म । आत्मा नाम समस्तस्यापि जगतः कारणभूतं परं तत्त्वम् । आत्मैव जगद्रूपेण अवभासते । तस्मात् आत्मनि सम्यक् ज्ञाते सति सर्वेऽप्ययं प्रपञ्चः ज्ञातप्राय एव । मूलकारणे विज्ञाते तत्कार्यं सर्वमपि विज्ञातमेव खलु भवति ?

जगत्कारणभूते आत्मनि विज्ञाते सति तत्कार्यभूतः प्रपञ्चः विज्ञातो भवति । आत्मनि श्रुते सर्वमपि जगत् श्रुतं भवति । सद्गुरोः सकाशात् आत्मनि श्रुते तथा मते निदिध्यासिते सति विश्वमिदं सर्वमपि विज्ञातं भवति । मृदि विदितायां तत्कार्यं सर्वमपि ज्ञातं भवति हि ? समस्तस्यापि प्रपञ्चस्य कारणभूते परमात्मनि एकस्मिन् विज्ञाते सति तद्भिन्नतया प्रपञ्चो नाम पदार्थो नावशिष्यते एव इत्यर्थः । अयम् हि आत्मज्ञानस्य महिमा !