आदिमध्यनिधनेषु सौहृदं...

विकिसूक्तिः तः

सुभाषितम्

आदिमध्यनिधनेषु सौहृदं सज्जने भवति नेतरे जने ।'
छेदतापनविघर्षताडनैः नान्यभावमुपयाति काञ्चनम् ॥




तात्पर्यम्

सज्जनेषु आरम्भे, मध्ये, अन्ते च उत्तमता एव भवति । एतादृशः गुणः अन्येषु न भवति । छेदनेन, तापनेन, घर्षणेन, ताडनेन अपि सुवर्णस्य सत्त्वं न परिवर्तते ।