आपोद्भूतसुतस्य ज वैरी...

विकिसूक्तिः तः

आपोद्भूतसुतस्य ज वैरी
आपोद्भूतसुतस्य च वैरी ।
तस्याभरणविरोधीनाथो
गकाररूपो पालय माम् ॥

जले उद्भूतस्य नारायणस्य पुत्रस्य ब्रह्मणः पुत्रस्य दक्षस्य शत्रुः, नारायणस्य पुत्रस्य शत्रुः यः शिवः तस्य आभरणमस्ति सर्पः । तस्य शत्रुः मूषिकः । तस्य स्वामी गकाररूपः गणपतिः मां रक्षतु ।

उत्तरम्

गणपतिः