गुणः

विकिसूक्तिः तः
  • अचेतनं नाम गुणं न लक्षयेत् ।
    • अभिज्ञानशाकुन्तलम्,, ६. १३


  • जगत् विश्वस्तं मे निवसति गुणो नष्टमयशः ।
    • पञ्चरात्रम्, १.११


  • मृतैः प्राप्यः स्वर्गॊ यदिह कथयत्येतदनृतं ।
परोक्षॊ न स्वर्गो बहुगुणमिहैवैष फलति ॥
    • पञ्चरात्रम्, १.२१


  • न वसन्त्येकत्र सर्वॆ गुणाः ।
    • महावीरचरितम्, १. ३३


  • शास्त्रॆ प्रतीष्ठा सहजश्च बोधः प्रागल्भ्यमभ्यस्तगुणा च वाणी ।
कालानुरोधः प्रतिभानवत्त्वमेते गुणाः कामदुधाः क्रियासु ॥
    • मालतीमाधवम्, ३, ११
  • गुणवान् रक्षितव्यो भवति ।
    • चारुदत्तम्, पृ ० ७८


  • हतेषु देहेषु गुणा धरन्ते ।
    • कर्णभारम्, पृ ० २८


  • समाने प्रभवादौ च गुणवत्ता तथेतरा ।
समुद्रादेव जायन्ते मुक्ताश्चापि वराटिकाः ॥
    • यज्ञफलम्, ३. २६


  • आकृतिमनुगृह्नन्ति गुणाः ।
    • विद्धशालभञ्जिका-नाटिका, पृ ०४२


  • गुणेषु यत्नः पुरुषेण कर्यो न किञ्चिदप्राप्यतमं गुणानाम् ।
    • मृच्छकटिकम्, ४.२३


  • गूणेष्वेव हि कर्तव्यः प्रयत्नः पुरुषैः सदा ।
    • मृच्छकटिकम्, ४.२२


  • गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च वयः ।
    • उत्तररामचरितम्, पृ ० १०८
  • पुरुषः शूद्रो भवेदुच्चकुलसूतो वा ?
गुणस्तत्र भवन्ति मुख्याः ॥
    • अंगुष्टदानम्, पृ ० ६६
"https://sa.wikiquote.org/w/index.php?title=गुणः&oldid=736" इत्यस्माद् प्रतिप्राप्तम्