चाटुचणकः(वादः)
न भेतव्यं न बोद्धव्यं न श्राव्यं वादिनो वचः ।
झटिति प्रतिवक्तव्यं सभासु विजिगीषुभिः ॥
सभायां वादप्रतिवादसमये क्वचित् अस्माकम् अपजयः यदा सन्निहितः भवेत्, मदीयः पक्षः दुर्बलः इति भावः यदा अन्तरङ्गे उत्पद्येत तदा मनसि प्रश्नः उद्भवेत् - इदानीं किं करणीयम् ? इति । कश्चन कविः तत्र मार्गम् उपदिशति - ‘‘तादृशे प्रसङ्गे न भेतव्यम् इति तु प्रथमः अंशः । अपरः अंशः - ‘झटिति उच्चस्वरेण प्रतिवक्तव्यम्’ इति । प्रतिवचनसमये वादिनः कथनस्य अवगमने श्रवणे वा अवधातव्यं नास्ति । यस्य स्वरः उच्चः, यस्य कथनम् अप्रतिहतं तस्य एव जयः’’ इति । एतादृशम् उत्कृष्टम् उपायं ज्ञापितवते तस्मै कवये नमस्कारान् समर्पयेम खलु वयम् ?
उच्चैरुद्घोष्य जेतव्यं माध्यस्थश्चेदपण्डितः ।
'पण्डितो यदि तत्रैव पक्षपातोऽधिरोप्यताम् ॥
वादभाषणस्पर्धादिषु भागं वहता जनेन आदौ अवगन्तव्यं यत् निर्णायकः कीदृशः इति । यदि सः विद्वान् न स्यात् तर्हि अटाटोपादिसहिततया वादः उपस्थापनीयः । तेन प्रभावितः सः निर्णायकः अस्मदानुकूल्येन निर्णयं श्रावयेत् । यदि सः विद्वान् स्यात् तर्हि तस्मिन् पक्षपातप्रवृत्तिः आरोपणीया । वैदुष्येण जयप्राप्तिः एकविधा । तन्त्रकुतन्त्रादिभिः जयप्राप्तिः अन्यविधा । अद्य लोके द्वितीयस्यैव प्रकारस्य अवलम्बनं दृश्यते आधिक्येन ।