अकृत्वा परसन्तापम्...

विकिसूक्तिः तः

सुभाषितम्

अकृत्वा परसन्तापम् अगत्वा खलनम्रताम् ।
अनुत्सृज्य सतां वर्त्म यत् स्वल्पमपि तद्बहु ॥

शार्ङ्गधरपद्धतिः

akṛtvā parasantāpam agatvā khalanamratām ।
anutsṛjya satāṃ vartma yat svalpamapi tadbahu ॥

पदच्छेदः

अकृत्वा, परसन्तापम्, अगत्वा, खलनम्रताम्, अनुत्सृज्य, सतां, वर्त्म, यत्, स्वल्पम्, अपि, तद्, बहु।


तात्पर्यम्

अन्येषु दुःखम् अजनयित्वा, दुष्टानां कृते विनयम् अप्रदर्श्य, सज्जनानां मार्गम् अपरित्यज्य स्वल्पमेव कृतञ्चेदपि तद् भवति महत्त्वपूर्णम्।


आङ्ग्लार्थः

Without tormenting others, without putting forth false modesty, without giving up the path of the noble - any little (achieved) is more.

"https://sa.wikiquote.org/w/index.php?title=अकृत्वा_परसन्तापम्...&oldid=17376" इत्यस्माद् प्रतिप्राप्तम्