जितेन्द्रियत्वं विनयस्य कारणं...

विकिसूक्तिः तः

सुभाषितम्

जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते ।
गुणाधिके पुंसि जनोऽनुरज्यते जनानुरागप्रभवा हि सम्पदः ॥




तात्पर्यम्

इन्द्रियाणि वशे यदि भवन्ति तर्हि विनयगुणः वर्धते । विनयः यदि स्यात् तर्हि सद्गुणाः वर्धन्ते । सद्गुणैः युक्तं मनुष्यं जनाः इच्छन्ति । जनानां प्रीतिः यदि सम्पाद्यते तर्हि ऐश्वर्यं स्वयमेव प्राप्यते ।