तदेतत् सर्वेभ्योऽङ्गेभ्यः तेजः...

विकिसूक्तिः तः

तदेतत् सर्वेभ्योऽङ्गेभ्यः तेजः सम्भूतम् । आत्मन्येवात्मानं बिभर्ति । तद्यदा स्त्रियां
सिञ्चति अथैनत् जनयति, तदस्य प्रथमं जन्म ॥ - ऎतरेयोपनिषत् २-१-१

तदेतद् वीर्यं सर्वेभ्यः अङ्गेभ्यः रेतोरूपेण उत्पद्यते । आत्मानम् आत्मन्येव अयं जीवः धरति ।
यदा पुरुषः तद् रेतः स्वभार्यायां सिञ्चति तदा इमं जीवम् उत्पादयति । इदं प्रथमं जन्म ॥

अस्य मानवस्य त्रीणि जन्मानि भवन्ति । मातुः योनिं पितृरेतोरूपेण प्रविशति इति यत् तदेवास्य
प्रथमं जन्म । नवमासानन्तरं योनिद्वारा भूलोकं प्रति बहिरागमनम् एव द्वितीयं जन्म । मरणानन्तरं पुनः
पुत्ररूपेण जननमेव तृतीयं जन्म । एवम् अविद्यावतः जीवात्मनः त्रीणि जन्मानि भवन्ति ॥

प्रकृते अत्र मन्त्रे जीवस्य प्रथमजन्मविवरणं कथ्यते । वीर्यं नाम मानवस्य सर्वाङ्गानां सारभूतं तेजः ।
एको वीर्यबिन्दुः मानवेन भुक्तस्य समस्तस्य आहारस्य सारतमो रसः । यदा वीर्यबिन्दुः स्त्रीयोनिं
प्रविशति तदा एव अस्य जीवस्य प्रथमं जन्म प्राप्तमिव । अविद्यया कामः, कामेन कर्माणि, कर्मभिः
जन्मानि । विद्यया अविद्यायां निवृत्तायां पुनः जन्मान्तरप्राप्तिर्नास्ति ॥