तद्धास्य विजज्ञाविति...

विकिसूक्तिः तः

तद्धास्य विजज्ञाविति विजज्ञाविति - छान्दोग्योपनिषत् ६-७-६

जनकस्य उपदेशं पुत्रः श्वेतकेतुः सम्यक् विज्ञातवान्, विज्ञातवानेव ।

अत्र उद्दालकः पिता, पुत्रस्तु श्वेतकेतुः । पिता स्वपुत्रं प्रति 'तत् सत्यम्, स आत्मा तत्त्वमसि श्वेतकेतो' इति नवकृत्वः
उपदिष्टवान् । 'तद् ब्रह्मैव एकं सत्यम्, तद् ब्रह्मैव आत्मा, तद् ब्रह्मैवासि त्वम्' इति उपदेशं कृतवान् पिता ॥

अयम् उपदेशः यद्यपि दृप्तस्य श्वेतकेतोः प्रारम्भे अवगन्तुम् कष्ट इव दृष्टः, तथापि अन्ते सुलभतया स्पष्टतया च
श्वेतकेतुः उपदेशार्थम् अवगतवानेव । अहं ब्रह्मास्मि इति ज्ञानं जिज्ञासूनां जायेत वा न वा इति संशयो मास्तु । वेदान्तेषु
उपदिष्टं ब्रह्मात्मज्ञानं चित्तशुद्धिमतां मुमुक्षूणां मनसि परिपक्वं भवति । गुरुभक्तानां सात्त्विकानां श्रवणतत्पराणां च
जिज्ञासूनां ब्रह्मात्मज्ञानोदयः नूनं भवत्येव ॥