तद्धैतत् पश्यन् ऋषिर्वामदेवः...

विकिसूक्तिः तः

तद्धैतत् पश्यन् ऋषिर्वामदेवः प्रतिपेदे 'अहं मनुरभवं सूर्यश्च' इति । - बृहदारण्यकोपनिषत् १-४-१०

तम् एतम् आत्मानं विदित्वा वामदेवमहर्षिः 'अहमेव मनुरस्मि अहमेव च सूर्यः' इति स्वानुभवेन प्रतिपन्नवान् ॥

लब्धात्मज्ञानेन वामदेवमहर्षिणा उद्घोषितोऽयं मन्त्रः 'अहं मनुरभवं सूर्यश्च' इति । अस्यैव सर्वात्मभावः इति नाम ॥

वामदेवो नाम कश्चित् महर्षिः ; सः ‘अहं ब्रह्मास्मि’ इति विज्ञातवान् । ब्रह्मैवाहम्, अहमेव ब्रह्म; नेदं शरीरमहमस्मि,
न च परिच्छिन्नः सामान्यः ऋषिरस्मि अहम्; किं तु परिपूर्णं निरवयवं सर्वात्मकं सर्वव्यापि ब्रह्मैवाहम् इति वामदेवः
स्वानुभवेन अवबुद्धवान् । एतदेव हि ब्रह्मात्मज्ञानं नाम ॥

ईदृशब्रह्मात्मज्ञानफलमेव हि सर्वात्मभावः । अहमेव मनुः, अहमेव सूर्यचन्द्रनक्षत्राणि; साध्यात्मिकं साधिभौतिकं
साधिदैविकं च विश्वं सर्वमपि अहमेव इति वामदेवमहर्षिः स्वानुभवेन ज्ञातवान् । वामदेवमहर्षेः धीरोद्गारोऽयम् !