तद्यो यो देवानां...

विकिसूक्तिः तः

तद्यो यो देवानां प्रत्यबुद्ध्यत स एव तदभवत् । तथा ऋषीणां,
तथा मनुष्याणाम् । - बृहदारण्यकोपनिषत् १-४-१०

देवानां मध्ये यो यो ब्रह्म प्रत्यबुद्ध्यत, स एव ब्रह्म अभवत् । तथा ऋषीणां
मध्ये, मनुष्याणां मध्ये यः कश्चिदपि 'अहं ब्रह्मास्मि' इति जानाति, सः सर्वोऽपि
ब्रह्मैव भवति ॥

ब्रह्मात्मज्ञानं वा ब्रह्मात्मभावो वा न केवलं प्राचीनकालस्य, प्राचीनमहर्षीणां, महतां
देवानां वा सम्बद्धो विशेषः । किं तु सर्वेषामपि । ब्रह्मणः सर्वेषामात्मत्वात् इदानीमपि
यः कश्चिदपि तद् ब्रह्म आत्मत्वेन विज्ञाय सर्वात्मभावम् आप्नुयात् ॥

वेदान्तेषु उपदिष्टं तादृशं प्राचीनतमं ब्रह्मात्मज्ञानम् अस्मादृशानामपि लभ्यं वा ?
अर्वाचीनानां दुर्बलानाम् अस्माकमपि सर्वात्मभावरूपः मोक्षः लभ्यते वा ? इति
संशयः सर्वथा नोपपद्येत । अल्पसामर्थ्यानामप्यस्माकमपि आत्मनः ब्रह्मस्वरूपत्वात्
इदानीमपि आत्मज्ञानं सर्वेषामपि लभ्यमेव । परिपूर्णस्य ब्रह्मणः सर्वेषामपि समतया
आत्मत्वात् । सूर्यप्रकाशवत्, अग्न्यौष्ण्यवच्च मोक्षस्य सर्वसमत्वात् अस्माभिरपि
मोक्षः विद्यया प्राप्यत एव ॥

"https://sa.wikiquote.org/w/index.php?title=तद्यो_यो_देवानां...&oldid=16484" इत्यस्माद् प्रतिप्राप्तम्