तस्माद्वा एतस्मात्...

विकिसूक्तिः तः

तस्माद्वा एतस्मात् आत्मनः आकाशः सम्भूतः । आकाशाद्वायुः । वायोरग्निः । अग्नेरापः ।
अद्भ्यः पृथिवी । पृथिव्या ओषधयः । ओषधीभ्योऽन्नम् । अन्नात् पुरुषः ॥ - तैत्तिरीयोपनिषत् २-१-२

सत्यज्ञानानन्तस्वरूपात् आत्मनः आकाशः सम्भूतः, आकाशात् वायुः उत्पन्नः, वायोः अग्निः, अग्नेः
आपः उद्भूताः, अद्भ्यः पृथिवी सञ्जाता, पृथिव्याः ओषधयः, ओषधीभ्यो अन्नम्, अन्नाच्च पुरुषः सञ्जातः ॥

‘जगतः ब्रह्म कारणम्’ इति वेदान्ताः उद्घोषयन्ति । सत्यज्ञानानन्तस्वरूपं हि ब्रह्म । इदं ब्रह्म न अस्मत्तः
भिन्नं वस्तु सर्वस्य जीवस्य स्वरूपमेव ब्रह्म । ब्रह्मैव अस्माकं प्रत्यगात्मा । अस्माकम् आत्मा एव ब्रह्म ।
अस्माकं स्वरूपभूतात् ब्रह्मण एव इदं समस्तं विश्वं जातं सत् , ब्रह्मण्येव विद्यमानं सत्, ब्रह्मण्येव लीयते च ॥

अकाशादीनि पञ्चभूतानि ब्रह्मादयः पीपीलिकान्ताः समस्ताः चेतनप्राणिनश्च ब्रह्मण एव उत्पन्नाः । सर्वस्यापि
जगतः ब्रह्मैव अभिन्नं निमित्तोपादानकारणम् । अतः कार्यभूतमिदं जगत् ब्रह्मैव ॥

"https://sa.wikiquote.org/w/index.php?title=तस्माद्वा_एतस्मात्...&oldid=16402" इत्यस्माद् प्रतिप्राप्तम्