तस्मिन्नपो मातरिश्वा दधाति...

विकिसूक्तिः तः

<poem> तस्मिन्नपो मातरिश्वा दधाति । - ईशावास्योपनिषत् ४

तस्मिन् परस्मिन् ब्रह्मणि सति एव हिरण्यगर्भः कर्मफलानि विदधाति ।

प्राणिनां कर्मफलदाता भगवानेव । परमात्मा हि कर्मणां कर्मफलानां च केवलं साक्षिभूतः । 'कर्माध्यक्षः' इति हि तस्य नाम । चैतन्यरूपेण सूर्यवत् कूटस्थः परमात्मा वर्तते ॥

तर्हि कर्मफलनियामकः कः? स एव हिरण्यगर्भः । अयं हि सर्वेषां प्राणिनाम् अन्तर्यामितया समष्टिरूपः प्राणात्मा । अयमेव आध्यात्मिकोपाधिना प्राणः इति वैश्वानरः इति च व्यपदिश्यते । अयमेव आधिभौतिकोपाधिना अयमेव हिरण्यगर्भः विराट् पुरूषः, सूत्रात्मा च इति उच्यते ॥

परमात्मनः अधीनतया अयं हिरण्यगर्भः अस्य विश्वस्य सृष्टिस्थितिलयकर्माणि कुर्वाणः कर्मफलनियमान् च करोति । परमात्मनि न कोऽपि विकारः सम्भवति । परं ब्रह्म तु स्वतः परिपूर्णं कूटस्थं सत्यं चिन्मात्रस्वरूपम् अद्वितीयं च वर्तते ॥