तस्याभिध्यानात्...

विकिसूक्तिः तः

तस्याभिध्यानात् तृतीयं देहभेदे विश्वैश्वर्यं केवलः आप्तकामः । - श्वेताश्वतरोपनिषत् १-११

तस्य परमात्मनः ध्यानेन, देहपतनानन्तरं विश्वैश्वर्यरूपां तृतीयाम् अवस्थां प्राप्नोति । ततः सः केवलं
ब्रह्मस्वरूपः सन् आप्तकामो भविष्यति ॥

वेदान्तेषु जीवन्मुक्तिः विदेहमुक्तिश्च इति मुक्तिः द्विधा विभज्यते । उत्तमाधिकारिणः ब्रह्मात्मज्ञानिनः अस्मिन्नेव
जन्मनि जीवन्मुक्ता भवन्ति । एतेषां साक्षान्मार्गः, वस्तुतन्त्रज्ञानमार्गः, साक्षात् शुकमार्गः; अपरः परम्परामार्गः,
पिपीलिकामार्गः, मन्दमध्यमाधिकारिणां सामान्यमार्गः ॥

परब्रह्मोपासकाश्चेत् तादृशाः एतस्य शरीरस्य पतनानन्तरं हिरण्यगर्भस्य लोकं गच्छन्ति । तत्रलोके हिरण्यगर्भब्रह्मणा
सह सर्वान् दिव्यान् भोगान् अनुभविष्यन्ति । अनन्तरं ब्रह्मणि लीयन्ते । तत्र ब्रह्मज्ञानं प्राप्य ते आप्तकामाः भविष्यन्ति ।
अविद्याकामकर्मभिः बन्धनैः मुच्यन्ते । तेषां पुनर्जन्मनः सम्भवो नास्ति । इयमेव च विदेहमुक्तिः इति कथ्यते ॥

"https://sa.wikiquote.org/w/index.php?title=तस्याभिध्यानात्...&oldid=16616" इत्यस्माद् प्रतिप्राप्तम्