तृणानि भूमिरुदकं वाक्...

विकिसूक्तिः तः

सुभाषितम्

तृणानि भूमिरुदकं वाक् चतुर्थी च सूनृता ।
एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥




तात्पर्यम्

उपवेशनाय आसनं, शयनाय स्थलं, पानाय जलं, मृदु वचनम् - एते सज्जनानां गृहे सदा भवन्ति एव ।