ते ध्यानयोगानुगता...
ते ध्यानयोगानुगता अपश्यन् देवात्मशक्तिं स्वगुणैर्निगूढाम् । - श्वेताश्वतरोपनिषत् १-३
ते ऋषयः ध्यानयोगानुगताः सन्तः स्वगुणैः निगूढां देवात्मशक्तिम् अपश्यन् ।
ध्यानयोगस्य महिमानम् अयं मन्त्रः प्रदर्शयति । ध्यानं नाम मनसः एकाग्रता । बाह्यात्
अनात्मप्रपञ्चात् मनसः प्रत्यक्प्रवणतया आत्मनः अनुसन्धानमेव हि ध्यानं नाम ? मनसः
परमात्मनि संयोजनमेव ध्यानयोगः । अनेन ध्यानयोगेन अतीन्द्रियगोचराश्च विषयाः ज्ञायन्ते ॥
भगवतः अद्भुता शक्तिः यद्यपि अस्मास्वेव विद्यते तथापि सा मायया प्रतिबद्धा अस्ति ।
बाह्यान् अनात्मविषयानेव सत्यत्वेन गृहीत्वा तेष्वेव अनुरक्तता हि माया नाम । बाह्यविषयानुरक्तता
एव माया । अज्ञानिनः मायापाशया बद्धाः सन्ति । मायावरणेन अस्माकं पारमार्थिकं स्वरूपं
न अवभासते । ध्यानेन तु मायावरणस्य विनिवृत्तिर्भवति । अस्माकं प्राचीनमहर्षयः इदं रहस्यं
प्रदर्शितवन्तः । भगवतः ध्यानेन वयमपि मायाजालात् मुक्ता भवेम ॥