तेन त्यक्तेन भुञ्जीथाः...

विकिसूक्तिः तः

तेन त्यक्तेन भुञ्जीथाः । - ईशावास्योपनिषत् १

हे मानव, त्वं तेन त्यागेनैव भोगम् आनन्दम् अनुभव ।

आनन्दं प्राप्तुं किं कुर्यात् ? इति जिज्ञासायां सत्याम् 'त्यागेन आनन्दम् अनुभव' इति
ईशावास्योपनिषत् उपदिशति । न भोगेन आनन्दः, किं तु त्यागेनैव इति उपदिशति अयं मन्त्रः ॥

किम् ? त्यागेन आनन्दः ? त्यागः ! अयं शब्द एव अनेकेषां भयम् उत्पादयति । त्यागो नाम
विसर्जनम् । अस्माभिः प्रयत्नपूर्वकं श्रमपूर्वकं सम्पादितस्य धनादेः वस्तुनः इतरेभ्यः दानं नाम
महत् कष्टकरम् । अनेन त्यागेन आनन्दो वा ? त्यागकर्तुः नष्टम्, त्यागप्राप्तुः पुनः आनन्दो भवेत् ।
त्यागकृतः नष्टवस्तुनः दुःखमेव भवति खलु ? इति सामान्यदृष्टेः भाति ॥

नैतद्युक्तम् । अत्र त्यागो नाम न केवलं दानम् । अत्र त्यागः इतरेभ्यः न वस्तुनः दानम् । किं तु
आत्मज्ञानमेव त्यागः । सर्वम् आत्मैव, इति विवेके उत्पन्ने सति ‘मदीयम्’ इति न किञ्चित् अवशिष्यते ।
‘अहं’ ‘मम’ इतिरूपायाः अविद्यायाः ज्ञानेन परिहार एव वेदान्तेषु त्यागः । ईदृशेन त्यागेन आनन्दः
न लभ्यते किम् ?