त्रिरुन्नतं स्थाप्य समं शरीरम्...

विकिसूक्तिः तः

त्रिरुन्नतं स्थाप्य समं शरीरम्
हृदीन्द्रियाणि मनसा संनिवेश्य ।
ब्रह्मोडुपेन प्रतरेत विद्वान्
स्रोतांसि सर्वाणि भयावहानि ॥ - श्वेताश्वतरोपनिषत् २-८

विवेकी साधकः त्रिभिः उन्नतं शरीरं समं संस्थाप्य, इन्द्रियाणि विवेकेन मनसि संनिवेश्य,
प्रणवोडुपेन भयङ्करं संसारसागरं सुलभतया तरेत् ॥

अयं संसारः सामान्यतः सागरेण उपमीयते उपनिषत्सु । जन्मजरामरणरूपः संसारसागरः
तावता सुलभेन तरीतुं न शक्यते । तरीतुं सर्वथा अशक्यम् इत्यपि न । तरणाय उपायोऽस्ति ॥

तर्हि संसारसागरतरणाय साधकैः किं कर्तव्यम् ? इति चेत्, उपायविशेषम् उपदिशति अयं मन्त्रः ।
शरीरं समं धारयेत् । शिरः, ग्रीवम्, उरश्च समानि कृत्वा चञ्चलानि इन्द्रियाणि बाह्यविषयेभ्यः प्रत्यक्
उपसंहरेत् । अनन्तरम् ओङ्कारोपासनद्वारा परमात्मानं ध्यायेत् । अनेन उपायेन आत्मज्ञानं लब्ध्वा
 संसारसागरं तरेत् ॥