त्रिषु धामसु यद्भोग्यं...

विकिसूक्तिः तः

त्रिषु धामसु यद्भोग्यं भोक्ता भोगश्च यद्भवेत् ।
तेभ्यो विलक्षणः साक्षी चिन्मात्रोऽहं सनातनः ॥ - कैवल्योपनिषत् १-१८

त्रिषु धामसु भोग्यम्, भोक्ता, भोगः इति यद्यद् दृश्यते, तस्मात् विलक्षणः साक्षी
अहं चिन्मात्रः सनातनश्च अस्मि इति जानाति आत्मवित् ।

त्रीणि स्थानानि इति जाग्रत् स्वप्न सुषुप्तानि अवस्थात्रयम् इति कथ्यन्ते । एतानि
त्रीणि स्थानानि विहाय चतुर्थं स्थानं न कोऽपि लोके दृष्टवान् । एतासु तिसृषु अवस्थासु
दृश्यमानाः पदार्थाश्च त्रय एव । ते एव प्रमाता, प्रमाणं, प्रमेयश्च । एतेषां त्रिपुटी इति नाम ॥

आत्मा नाम प्रत्यगात्मा एभ्यो विलक्षणः । आत्मा साक्षिभूतः । अस्य आत्मनः त्रिपुटिसम्बन्धो
नास्ति । आत्मनः अवस्थात्रयलेपो नास्ति । आत्मा चैतन्यस्वरूपः । आत्मा देशकालातीतः ।
एषः प्रत्यगात्मा एव अहम् इति यो विजानाति सः आत्मज्ञानी । आत्मवत् आत्मविदपि
नित्यशुद्धनित्यबुद्धनित्यमुक्तस्वरूप एव भवति ॥