द्वया ह प्राजापत्याः देवाश्च...

विकिसूक्तिः तः

द्वया ह प्राजापत्याः देवाश्च असुराश्च । ततः कानीयसा एव देवाः, ज्यायसाः असुराः ॥ - बृहदारण्यकोपनिषत् १-३-१

प्रजापतिपुत्राः देवाः असुराः इति द्विधा भवन्ति । तेषां देवाः न्यूनाः, असुराः अधिका भवन्ति ॥

प्रजापतिर्नाम प्रजानां पतिः । अयमेव ब्रह्मा, विराटपुरुषश्च । एष एव हि सर्वेषां प्राणिनां मूलभूतः प्रप्रथमः
पुरुषः । अस्य हि पुत्राः (प्रजापतेः अपत्यानि पुमांसः) प्राजापत्याः इति उच्यन्ते ॥

इमे प्राजापत्याः देवाः असुराः इति द्विधा विभज्यन्ते । शास्त्रात् लब्धविवेकज्ञानाः देवाः, दीव्यन्ति इति देवाः,
इन्द्रियाणि प्रकाशयन्ति इति देवाः ; धर्म –ज्ञान – ऐश्वर्यादिभिः विराजमानाः देवाः । असुरास्तु असुषु रमन्ते इति ।
इन्द्रियभोगनिरताः असुराः । दृष्ट फलभोगनिमग्नाः असुराः । ईदृशाः असुरा एव बहुसङ्ख्याकाः । देवास्तु अल्पीयांस
एव । मानवेषु अस्मास्वेव ईदृशाः देवाः असुराश्च विद्यन्ते । मनुष्येष्वेव राजसाः केचित् असुरस्वभावाः सात्त्विकाः
केचित् देवस्वभावाश्च भवन्ति ॥