न तत्र चक्षुर्गच्छति...
अवाङ्कपाठ्यांशः
न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनः । - केनोपनिषत् १-३
तत्र परस्मिन् ब्रह्मणि चक्षुर्वा वाग्वा मनो वा न गच्छति ।
‘चक्षुषा दृष्टं सत्यम्, श्रोत्रेण श्रुतं तु मिथ्या’ इति हि सामान्यतः प्रसिद्धम् । एषा सूक्तिः लोके प्रसिद्धानां
सर्वेषां साकारपदार्थानां विषये सफला एव । विद्यमानाः पदार्थाः सूक्ष्मा अपि, स्थूलैरिन्द्रियैः अगृह्यमाणा
अपि सूक्ष्मदर्शकपारदर्शकदूरदर्शकादिसाधनैः अवश्यमेव विषयीक्रियन्ते । सहस्राधिकप्रकाशसंवत्सरैः
(Thousands of Light years) अन्तरितानि तारकाणि दूरस्थानि अपि चक्षुषा एव खलु गृह्यन्ते, चक्षुरेव
हि तेषामस्तित्वे प्रमाणम् ॥
सत्यमेवेदम्, अपि तु प्रत्यगात्मा नैवं चक्षुषा दृश्यते, न केनापि प्रमाणेन आत्मा विषयीक्रियेत । कस्मात् ?
रूपादिरहितत्वात् । रूपादियुक्तान् खलु पदार्थान् नेत्रादीनि प्रमाणानि दर्शयेयुः, न हि रूपरहितं पदार्थं नेत्रं
प्रकाशयेत् । स्वस्वविषयानेव हि तानि तानि इन्द्रियाणि प्रकाशयेयुः । शब्दस्पर्शरूपरसगन्धरहितमात्मानं तु न
कथञ्चिदपि प्रमाणानि गृह्युः । अनुभवमात्रैकप्रमाणगोचरोऽयमात्मा ॥