न तस्य प्राणा उत्क्रामन्ति...

विकिसूक्तिः तः

न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन् ब्रह्माप्येति । - बृहदारण्यकोपनिषत् ४-४-६

तस्य ब्रह्मज्ञानिनः प्राणाः न उत्क्रामन्ति, यतः अयम् इदानीं ब्रह्मैव सन् ब्रह्म अप्येति ।

अज्ञानिनां कामिनाम् उत्क्रान्तिः गतिः आगतिश्च सम्भवत्येव । कामरहितस्य आत्मज्ञानिनस्तु गतिः
नैव विद्यते । कर्मप्रेरितः अज्ञः फलानुभोगाय इतः त्यक्त्वा शरीरं तत्र गच्छेत् । अविद्याकाम कर्मप्रेरितः
अज्ञः पुनः पुनः जायते म्रियते च । अज्ञो हि जन्ममरणचक्रे बद्धः सुखदुःखफलानि अनुभवति ॥

ब्रह्मज्ञानिनस्तु कामाभावात् कर्माभावः । आप्तकामस्य आत्मकामस्य अकामस्य ब्रह्मविदः लोकान्तरजन्मान्तरगमनाभावात्
तस्य इन्द्रियाणि न उत्क्रामन्ति । निर्विशेषः अद्वैतः परिपूर्णश्च आत्मा अहमस्मि इति अनुभवेन ज्ञातवतः ज्ञानिनः कुतः किं
विहाय कुत्र वा गमनं भवेत् ? अत्रैव इदानीमेव ज्ञानी ब्रह्मस्वरूप एव सन् परस्मिन् ब्रह्मण्येव एकीभवति । जीवन्मुक्तो हि ज्ञानी
नाम ? अस्य ब्रह्मविदः गतिर्नास्ति ॥