न तस्यादिः न तस्यान्तो...

विकिसूक्तिः तः

न तस्यादिः न तस्यान्तो
मध्ये यस्तस्य तिष्ठति ।
तवाप्यस्ति ममाप्यस्ति
यदि जानासि तद्वद ॥

प्रथमः अर्थः - आदिः नास्ति, अन्त्यं नास्ति, मध्ये यः विद्यते तस्य समीपे भवति ।
मम अपि अस्ति, भवतः अपि अस्ति । जानाति चेत् उत्तरं वदतु ।
द्वितीयः अर्थः - नकारः आदौ अस्ति, नकारः अन्ते विद्यते । मध्ये यकारः विद्यते ।
तच्च वस्तु मम समीपे अपि विद्यते, भवतः समीपे अपि विद्यते । किं तत् ?

उत्तरम्

नयनम्