न वित्तेन तर्पणीयो...

विकिसूक्तिः तः

न वित्तेन तर्पणीयो मनुष्यः । - काठकोपनिषत् १-१-२७

वित्तेन, धनेन मनुष्यं तर्पयितुं नैव शक्यते ।

मनुष्याय अधिकेनापि धनेन, अधिकारेण, यशसा, आरोग्येण, अधिकेनापि आयुरादिना
नालंभवेत् । तत् मे, इदं मे स्यात्, सर्वमपि मे भवेत् इति । केचित् अधिकारिणः कोटिशः
धनं सम्पादयन्ति । भार्यायै, पुत्रेभ्यः, जामातृभ्यः, पौत्रेभ्यः, श्यालेभ्यः, नप्त्रेभ्यः, प्रप्रपौत्रेभ्यः
इति अधिकं धनं सम्पाद्य राशीकुर्वन्ति । भवतु, किं तावता धनसम्पादनेन तेषां तृप्तिर्जाता ? नैव ॥

यतो हि धनस्य स्वभाव एव एषः । अस्मिन् प्रपञ्चे एतावत् पर्यन्तं न कस्मैचिदपि धनेन तृप्तिर्नाम जाता
अस्ति । दशरूप्यकेषु प्राप्तेषु शतं रूप्यकाणि स्युः, शतेषु रूप्यकेषु लब्धेषु सहस्रं रूप्यकाणि भवेयुः,
सहस्रेषु रूप्यकेषु प्राप्तेषु दशसहस्रं रूप्यकाणि भवेयुः, तेषु प्राप्तेषु सत्सु ततोऽधिकं ततोऽप्यधिकं,
ततः शतगुणं, सहस्रगुणम् इत्यादि । एवं धनाशा वर्धमाना एव वर्तते । घृतेन हुतेन अग्निः वर्धते खलु ?
एवमेव धनाशा अपि । सर्वथा धनेन न कस्मैचित् तृप्तिः दृष्टा । धनस्य दौर्भाग्यमेतत् । दुस्थितिरेषा ॥

"https://sa.wikiquote.org/w/index.php?title=न_वित्तेन_तर्पणीयो...&oldid=16302" इत्यस्माद् प्रतिप्राप्तम्