न स तत् पदमाप्नोति...

विकिसूक्तिः तः

न स तत् पदमाप्नोति संसारं चाधिगच्छति । - काठकोपनिषत् १-३-७

सः अज्ञः वैष्णवपदं न प्राप्नोतीति न केवलम्, किं तु सः संसारमेव प्रतिपद्यते ।

मानवाय विवेकयुक्ता बुद्धिः, शुद्धं मनः, अत्यन्तोपयोगीनि इन्द्रियाणि, समर्थं शरीरं च
भगवता दत्तानि सन्ति । एतानि सर्वाण्यपि विवेकेन साधुमार्गेण उपयुज्यन्ते चेत् तदा
साधकः मुक्तिं लब्ध्वा कृतार्थो भवेत्, अन्यथा यथेच्छम् उपयुज्यन्ते चेत्, तदा तस्य
अविवेकिनः हानिद्वयं भवति ॥

किं तत् ? इति चेत्, मुक्तेः अप्राप्तिः प्रथमा हानिः, संसारस्य प्राप्तिः द्वितीया हानिः ।
शरीरमेव हि मानवस्य दिव्यो रथः, शरीरं हि श्रेष्ठो रथः, इन्द्रियाण्येव उत्तमाः अश्वाः,
मनः प्रग्रहम्, बुद्धिश्च विवेकी सारथिः, शब्दादयो विषयाः मार्गाः । एतानि सर्वाण्यपि
मानवः साधुक्रमेण न उपयुङ्क्ते चेत् तदा तस्य आत्मज्ञानं वा मुक्तिर्वा न प्राप्यते इत्येव
न, किं तु , सः पुनः पुनः संसारमेव प्राप्नोति । एवम् अज्ञस्य नष्टद्वयं भवति ॥

"https://sa.wikiquote.org/w/index.php?title=न_स_तत्_पदमाप्नोति...&oldid=16303" इत्यस्माद् प्रतिप्राप्तम्