नाभिषेको न संस्कारः...

विकिसूक्तिः तः

सुभाषितम्

नाभिषेको न संस्कारः सिंहस्य क्रियते वने ।
विक्रमार्जितसत्त्वस्य स्वयमेव मृगेन्द्रता ॥




तात्पर्यम्

सिंहस्य संस्कारपूर्वकम् अभिषेकः केनापि न कृतः । स्वस्य पराक्रमेण एव सः पशूनां पतिः जातः अस्ति । इदं स्वतःसिद्धरूपेणैव सिंहेन प्राप्तमस्ति ।

"https://sa.wikiquote.org/w/index.php?title=नाभिषेको_न_संस्कारः...&oldid=14935" इत्यस्माद् प्रतिप्राप्तम्