निष्कलं निष्क्रियं...

विकिसूक्तिः तः

निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् ।
अमृतस्य परं सेतुम् दग्धेन्धनमिवानलम् ॥ - श्वेताश्वतरोपनिषत् ६-१९

कलारहितं क्रियारहितं शान्तं दोषरहितं सङ्गरहितम् अमृतत्वस्य सेतुं दग्धेन्धनम्
अनलमिव स्थितम् आत्मानं विजानीयात् ।

आत्मनः नैजं स्वरूपम् उपदिशति अयं मन्त्रः । न हि आत्मा नाम कश्चित् मानवः ।
न च एका देवता, न च अचेतनं वस्तु । आत्मनि अवयवाः, अंशाः, भागा वा न सन्ति ।
आत्मनि स्वतः न कापि क्रिया सम्भवति । न च आत्मनि विकाराः विक्रियाः सन्ति ।
आत्मनि पुण्यपापकर्मणां लेपः नैव सम्भवति ॥

आत्मनि गुणादोषाः न सन्ति । ईदृशस्य एव आत्मनः ज्ञानम् अमृतत्वप्राप्त्यै साधनं भवति ।
‘अहम् ईदृशः आत्मा अस्मि’ इति ज्ञाते एव मोक्षः प्राप्यते । दग्धेन्धनः अग्निरिव आत्मा शान्तः ।
आत्मनि न कापि विक्रिया अस्ति, विकारो नास्ति। आत्मा परिपूर्णः निरवयवः चिन्मात्रस्वरूपश्च ।
एवंविदः अमृतत्वफलमेव लभ्यते । संसारसागरं तीर्त्वा अमृतत्वं प्राप्तुम् आत्मज्ञानमेव साधनं भवति ॥

"https://sa.wikiquote.org/w/index.php?title=निष्कलं_निष्क्रियं...&oldid=16623" इत्यस्माद् प्रतिप्राप्तम्