पञ्चस्रोतोऽम्बुं पञ्चयोन्युग्रवक्रां...

विकिसूक्तिः तः

पञ्चस्रोतोऽम्बुं पञ्चयोन्युग्रवक्रां
पञ्चप्राणोर्मिं पञ्चबुद्ध्यादिमालाम् ।
पञ्चावर्तां पञ्चदुःखौघवेगां
पञ्चाशद्भेदां पञ्चपर्वामधीमः ॥ - श्वेताश्वतरोपनिषत् १-५

नदीरूपः परमात्मा पञ्चस्रोतोरूपेण, पञ्चकारणभूतः । उग्रः वक्रश्च पञ्चप्राणोर्मिः, पञ्चज्ञानादिमूलभूतः,
पञ्चावर्तः, पञ्चदुःखप्रवाहः, पञ्चाशद्भेदः पञ्चपर्वात्मकश्च परमात्मा दृश्यते । एवं परमात्मानं ध्यायेत ॥

परमात्मा एव नदीरूपेणापि कल्प्यते । अस्याः नद्याः पञ्च ज्ञानेन्द्रियाण्येव स्रोतांसि, पञ्च शब्दादयो
विषयाः योनिः । एषा नदी उग्रा च वक्रा च वर्तते । प्राणः, अपानः, व्यानः, उदानः, समानश्च इति
पञ्च वीचयः भवन्ति । पञ्चानामपि ज्ञानानां मूलभूतं मन एव अस्याः परमात्मनद्याः मूलम् ।
शब्दस्पर्शरूपरसगंधा एव आवर्ताः; गर्भवासजन्मजरारोगमरणान्येव प्रवाहाः, पञ्चाशद्भेदवती
इयं नदी । अविद्या – अस्मिता- राग- द्वेष – अभिनिवेशाख्यैः पञ्चपर्वभिः संयुक्ता एषा नदी ।
एवं नदीरूपेण दृश्यमानं वस्तु परं ब्रह्मैव । परमेव ब्रह्म नदीसमुद्रगिरिपर्वतादिरूपैः अवभासते इत्यर्थः ॥