परोपदेशवेलायां...

विकिसूक्तिः तः

सुभाषितम्

परोपदेशवेलायां शिष्टाः सर्वे भवन्ति वै ।
विस्मरन्तीह शिष्टत्वं स्वकार्ये समुपस्थिते ॥

paropadeśavelāyāṃ śiṣṭāḥ sarve bhavanti vai ।
vismarantīha śiṣṭatvaṃ svakārye samupasthite ॥

पदच्छेदः

परोपदेशवेलायां, शिष्टाः, सर्वे, भवन्ति, वै, विस्मरन्ति, इह, शिष्टत्वं, स्वकार्ये, समुपस्थिते ।


तात्पर्यम्

अन्यान् उपदेशावसरे सर्वे उत्तमाः एव भवन्ति । स्वार्थसाधनावसरे सुलभतया एव उत्तमतां विस्मरन्ति ।


आङ्ग्लार्थः

At the time of giving advice to others, everyone is wise. But when encountered by their own problems, they forget all their wisdom!

"https://sa.wikiquote.org/w/index.php?title=परोपदेशवेलायां...&oldid=17742" इत्यस्माद् प्रतिप्राप्तम्