प्रज्ञया वाचं समारुह्य...

विकिसूक्तिः तः

प्रज्ञया वाचं समारुह्य वाचा सर्वाणि नामानि आप्नोति । - कौषीतकिब्राह्मणोपनिषत् ३-६

जीवात्मा प्रज्ञया वाचं समारुह्य, वाचा सर्वाणि नामानि व्याप्नोति ।

जीवात्मा नाम चेतनः आत्मा । अयं प्रज्ञया चैतन्येन, वाचं वागिन्द्रियं समारोहति । अचेतनस्य
वागिन्द्रियस्य चैतन्यदाता अयमेव आत्मा । आत्मनः अनुग्रहादेव खलु वागादीनि इन्द्रियाणि आत्मनः
कार्याणि कुर्वन्ति सन्ति । आत्मा इन्द्रियेषु चैतन्यं पूरयति ॥

अनेन चैतन्येन पूर्णानि इन्द्रियाणि स्वस्वविषयान् प्रकाशयन्ति । अस्मिन् विशाले जगति विद्यमानं
सर्वं वस्तु केवलं द्वयमेव । एकं नाम, अपरं रूपं च । नामप्रपञ्चं सर्वमपि व्याप्य स्थितम् इन्द्रियं नाम
वागेव । सर्वे वेदाः, सर्वाणि शास्त्राणि, सर्वाणि पुराणानि च वाग्रूपाण्येव भवन्ति । वाचा अव्याप्तं नामैव
न स्यात् । ओङ्कारः सकलाः वाचः व्याप्नोति । प्रज्ञा एव ओङ्कारमपि व्याप्नोति । एतां प्रज्ञां परं
ब्रह्म जानीयात् ॥