प्रायेण नीचलोकस्य...

विकिसूक्तिः तः

प्रायेण नीचलोकस्य कः करोतीह गर्वताम् ।
आदौ वर्णद्वयं दत्त्वा ब्रूहि के वनवासिनः ॥

निकृष्टजनानां मनसि कस्मात् वस्तुनः अहङ्कारः उत्पद्यते ? तस्य आदौ वर्णद्वयं यदि योज्यते
तर्हि 'वनवासिनः' इत्येषः अर्थः भवेत् । किं तत् ? राः - धनम् । श, ब इत्येतत् अक्षरद्वयं
योजनीयम् ।

उत्तरम्

शबराः
"https://sa.wikiquote.org/w/index.php?title=प्रायेण_नीचलोकस्य...&oldid=1800" इत्यस्माद् प्रतिप्राप्तम्