भये वा यदि वा हर्षे...

विकिसूक्तिः तः

सुभाषितम्

भये वा यदि वा हर्षे सम्प्राप्ते यो विमर्शयेत् ।
कृत्यं न कुरुते वेगान्न स सन्तापमाप्नुयात् ॥




तात्पर्यम्

भययुक्ते सन्निवेशे भवतु आनन्दावसरे वा भवतु यः पूर्वापरं विमर्शयेत्, सहसा अविचिन्त्य कार्यं न कुर्यात् तस्य दुःखं न भवेत् कदापि ।

"https://sa.wikiquote.org/w/index.php?title=भये_वा_यदि_वा_हर्षे...&oldid=14961" इत्यस्माद् प्रतिप्राप्तम्