भिद्येते चासां नामरूपे...

विकिसूक्तिः तः

भिद्येते चासां नामरूपे, पुरूष इत्येवं प्रोच्यते, स एषोऽकलो अमृतो भवति । - प्रश्नोपनिषत् ६-५

आसां कलानां नामरूपे भिद्येते, तदा पुरुष इत्येव प्रोच्यते । तदा पुरुषः अकलो भवति अमृतो भवति ॥

पुरुषादेव जाताः षोडश कलाः पुरुषे एव लीयन्ते । इदं दर्शयितुम् अत्र प्रश्नोपनिषदि दृष्टान्तः दीयते ।
यथा – गंगा यमुना गोदावरीप्रमुखाः नद्यः नानादिग्भ्यः प्रवहन्त्यः समुद्रं प्रविशन्त्यः समुद्रे एकीभूय अनन्तरं
समुद्रः इत्येव कथ्यन्ते, एवमेव आत्मनो जाताः सर्वा अपि कलाः अन्ते आत्मन्येव विलीयन्ते ॥

सर्वा अपि कलाः आत्मन एव जायन्ते इति अविद्यावस्थायामेव उपदिश्यते, परमार्थदृष्ट्या तु सर्वा अपि
कलाः आत्मैव भवन्ति । औपनिषदात्मज्ञानेन सर्वा अपि कलाः आत्मन्येव लीयन्ते । आत्मज्ञानादेव केवलात्
आत्मन्येव कलाप्रलयो भवति ॥

कलाकारणभूतं कलाश्रयभूतं निष्कलम् आत्मानं विवेकेन विज्ञाय नामरूपरहितं ब्रह्मैव प्राप्नोति साधकः ॥