महात्मा गान्धिः

विकिसूक्तिः तः
सत्यमेव जयते

महात्मा गान्धिः (अक्टोबर् २, १८६९ - जनवरी ३०, १९४८) सत्याग्रहान्दोलनस्य आरम्भकर्ता । अहिंसाद्वारा ब्रिटिश्-आधिपत्यतः भारतस्य स्वातन्त्र्यसम्पादनाय महान् प्रयासः तेन विहितः ।

अमृतवचनानि[सम्पाद्यताम्]

  • स्वदेशीयतत्वं रोटिका-वस्त्र-गृहसम्बद्धमात्रं न, अपि तु सम्पूर्णजीवनसम्बद्धम् अस्ति । स्वदेशीयतत्त्वम् एतत् देशस्य प्राणवायु: अस्ति । स्वराज्य-स्वाधीनतयो: आश्वासकम् अस्ति तत् । दारिद्र्यात्, बुभुक्षात:, दास्यात् च मुक्तिं प्राप्तुम् उपाय: अस्ति एतत् । स्वदेशीयतत्त्वस्य अभावे राजनैतिकम्, आर्थिकं, सांस्कृतिकं, मानसिकं च स्वातन्त्र्यं सर्वथा न शक्यते प्राप्तुम् ।


  • एषा अस्ति युधिष्ठिरस्य भूमि: । एषा रामचन्द्रस्य भूमि: अपि । ऋषिमुनय: एतस्यां भूमौ तप: आचरितवन्त: । तै: सन्देश: श्रावित: यत् एषा अस्ति कर्मभूमि:, न तु भोगभूमि: इति । एतद्भूमिवासिन: अहं वदामि यत्, यत् वस्तु दयाधर्मबाह्यं स्यात् तस्य समावेश: यदि हिन्दुधर्मे भवेत् तर्हि तस्य नाश: अवश्यं सम्भवेत् इति । (महात्मा गान्धी, नवजीवन - दि. 18/1/1925, पृ. 601)

बाह्यशृङ्खला[सम्पाद्यताम्]

"https://sa.wikiquote.org/w/index.php?title=महात्मा_गान्धिः&oldid=17531" इत्यस्माद् प्रतिप्राप्तम्