महाभारतसूक्तयः (अग्निः)

विकिसूक्तिः तः

त्वमग्ने सर्वलोकानां मुखं त्वमसि हव्यवाट्। आदि २२८/२३॥

त्वमन्तः सर्वभूतानां गूढश्चरसि पावक।
त्वामेकमाहुः कवयस्त्वामाहुस्त्रिविधं पुनः॥ आदि २२८/२४॥

त्वामष्टधा कल्पयित्वा यज्ञवाहमकल्पयन्।
त्वया विश्वमिदं सृष्टं वदन्ति परमर्षयः॥ आदि २२८/२५॥

सर्वमग्ने त्वमेवैकस्त्वयि सर्वमिदं जगत्।
त्वं धारयसि भूतानि भुवनं त्वं विभर्षि च॥ आदि २३१/१३॥

सृष्ट्वा लोकांस्त्रीनिमान् हव्यवाह काले प्राप्ते पचसि पुनः समिध्दः।
त्वं सर्वस्य भुवनस्य प्रसूतिस्त्वयेवाग्ने भवसि पुनः प्रतिष्ठा॥ आदि २३१॥ १४॥ उद्योग १६/५॥

त्वमन्नं प्राणिभिर्भुक्तमन्तर्भूतो जगत्पते।
नित्यप्रवृध्दः पचसि त्वयि सर्वं प्रतिष्ठितम्॥ आदि २३१/१५॥

सूर्यो भूत्वा रश्मिभिर्जातवेदो भूमेरम्भो भूमिजातान् रसांश्च।
विश्वनादाय पुनरुत्सृज्य काले दृष्ट्वा वृष्ट्या भावयसीह शुक्र॥ आदि २३१/१६॥

अग्निर्हिमस्य भैषज्यम्॥ वन ३१३/६८॥

पावनात् पावकश्चासि वहनाध्दव्यवाहनः।
वेदास्त्वदर्थं जाता वै जातवेदास्ततो ह्यसि॥ सभा ३१/४२॥

अग्निर्ददातु मे तेजो वायुः प्राणं ददातु मे।
पृथिवी बलमाध्याच्छिवं चापो दिशन्तु मे॥ सभा ३१/४५॥

एवं स्तुतोऽसि भगवन् प्रीतेन शुचिना मया।
तुष्टिं पुष्टिं श्रुतिं चैव प्रीतिं चाग्ने प्रयच्छ मे॥ सभा ३९९/४९॥

बालोऽप्यग्निर्दहति स्पृश्यमानः॥ वन १३३/७॥

अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम्।
तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति॥ उद्योग १५/३४॥

त्वमग्ने सर्वदेवानां मुखं त्वमसि हव्यवाट्।
त्वमन्तः सर्वभूतानां गूढश्चरसि साक्षिवत्॥ उद्योग १६/१॥

त्वामाहुरेकं कवयस्त्वामाहुस्त्रिविधं पुनः।
त्वया त्यकं जगच्चेदं सद्यो नश्येद् हुताशन॥ उद्योग १६/२॥

त्वमेवाग्ने हव्यवाहस्त्वमेव परमं हविः।
यजन्ति सत्रैस्त्वामेव यज्ञैश्च परमाध्वरे॥ उद्योग १६/४॥

त्वामग्ने जलदानाहुर्विद्युतश्च मनीषिणः।
दहन्ति सर्वभूतानि त्वत्तो निष्क्रम्य हेतयः॥ उद्योग १६/६॥

त्वय्यापो निहिताः सर्वास्त्वयि सर्वमिदं जगत्।
न तेऽस्त्यविदितं किंचित् त्रिषु लोकेषु पावक॥ उद्योग १६/७॥

अग्निस्तेजो महल्लोके गूढस्तिष्ठति दारुषु।
न चोपयुङ्क्ते तद् दारु यावन्नोदीप्यते परैः॥ उद्योग ३७/६०॥

नाग्निं मुखेनोपधमेन्न न च पादौ प्रदापयेत्।
नाधः कुर्यात् कदाचित् तु न पृष्ठं परितापयेत्॥ आश्व ९२ दा.पा.अ XIII॥

प्राप्तमूत्रपुरीषस्तु न स्पृशेद् वह्निमात्मवान्।
यावत् तु धारयेत् वेगं तावदप्रयतो भवेत्॥ आश्व ९२ दा.पा.अ XIII॥

ब्रह्मत्वेनासृजं लोकानहमादौ महाद्युते।
सृष्टोऽग्निर्मुखतः पूर्वं लोकानां हितकाम्यया॥ आश्व ९२ दा.पा.अ XVI॥

यस्मदग्रे स भूतानां सर्वेषां निर्मितो मया।
तस्मादग्नीत्यभिहितः पुराणज्ञैर्मनीषिभिः॥ आश्व ९२ दा.पा.अ XVI॥

गृहाणां हि पतित्वं हि गृहपत्यमिति स्मृतम्।
गृहपत्यं तु यस्यासीत् तत् तस्माद् गार्हपत्यता॥ आश्व ९२ दा.पा.अ XVI॥

यजमानं तु यस्मात् तु दक्षिणां तु गतिं नयेत्।
दक्षिणाग्निं तमाहुस्ते दक्षिणायतनं द्विजाः॥ आश्व ९२ दा.पा.अ XVI॥

आहुतिः सर्वमाख्याति हव्यं वै हवनं स्मृतम्।
सर्वहव्यवहो वह्निर्गतश्चाहवनीयताम्॥ आश्व ९२ दा.पा.अ XVI॥

ब्रह्मा च गार्हपत्योऽग्निस्तस्मिन्नेव हि सोऽभवत्।
दक्षिणाग्निस्त्वयं रुद्रः क्रोधात्मा चण्ड एव सः॥ आश्व ९२ दा.पा.अ XVI॥

अहमाहवनीयोऽग्निराहोमाद् यस्य वै मुखे॥ आश्व ९२ दा.पा.अ XVI॥