महाभारतसूक्तयः (अधर्मः)

विकिसूक्तिः तः

नाधर्मश्चरितो राजन् सद्यः फलति गौरिव।
शनैरावर्त्यमानो हि कर्त्तुर्मूलानि कृन्तति॥ आदि ८०/२॥

पुत्रेषु वा नप्तृषु वा न चेदात्मनि पश्यति।
फलत्येव ध्रुवं पापं गुरुभुक्तमिवोदरे॥ आदि ८०/३॥

स्वल्पमेव यथा दत्तं दानं बहुगुणं भवेत्।
अधर्म एवं विप्रर्षे बहुदुःखफलप्रदः॥ आदि १०७/१२॥

नाधर्मेण जितः कश्चिद् व्यथते वै पराजये॥ सभा ७८/८॥

नेशे बलस्येति चरेदधर्मम्॥ वन २५/१२॥

वर्धत्यधर्मेण नरस्ततो भद्राणि पश्यति।
ततः सपत्नाञ्जयति समूलस्तु विनश्यति॥ वन ९४/४॥

न कृष्ण धर्मश्चरितो भवाय जन्तोरधर्मश्च पराभवाय॥ वन ११९/५॥

आत्मनैव हतः पापो य पापं कर्त्तुमिच्छति॥ वन २०७/४५॥

नाधर्मो विद्यते कश्चिच्छत्रून् हत्वाऽऽततायिनः॥ उद्योग ३/२०॥

अधर्म्यमयशस्यं च शात्रवाणां प्रयाचनम्॥ उद्योग ३/२१॥

यश्चाधर्मं चरेल्लोभात् कामक्रोधावनुप्लवन्।
धर्म्यं पन्थानमाक्राम्य सानुबन्धो विनश्यति॥ शान्ति २१२/७॥

धर्मस्य ह्रियमाणस्य बलवद्भिर्दुरात्मभिः।
संस्था यत्नैरपि कृता कालेन प्रतिभिद्यते॥ अनु १६२/३१॥

अधर्मो धर्मरूपेण तृणैः कूप इवावृतः।
ततस्तैर्भिद्यते वृत्तं श्रृणु चैव युधिष्ठिर॥ अनु १६२/१२॥

जिज्ञासा न तु कर्तव्या धर्मस्य परितर्कणात्॥ अनु १६२/२१॥